व्या॰ भा॰ २.२७

॥२.२७॥ तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेति अशुद्ध्यावरणमलापगमाच्चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति । तद्यथा ॥ १ ॥ परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । २ ॥ क्षीणा हेय हेतवो न पुनरेतेषां क्षेतव्यमस्ति । ३ ॥ साक्षात्कृतं निरोधसमाधिना हानम् । ४ ॥ भावितो विवेकख्यातिरूपो हानोपाय इति । षा चतुष्टयी कार्या विमुक्तिः प्रज्ञायाः । चित्तविमुक्तिस्तु त्रयी । ५ ॥ चरिताधिकारा बुध्दिः । ६ ॥ गुणा गिरिशिखरतटच्युता इव ग्रावाणो निरवस्थानाः स्वकारणे प्रलयाभिमुखाः सह तेनास्तं गच्छन्ति । न चैषां प्रविलीनानां पुनरस्त्युत्पादः प्रयोजनाभावादिति । ७ — तस्यामवस्थायां गुणसम्बन्धातीतः स्वरूपमात्रज्योतिरमलः केवली पुरुष इति । तां सप्तविधां प्रान्तभूमिप्रज्ञानमनुपश्यन्पुरुषः कुशल इत्याख्यायते । प्रतिप्रसवेऽपि चित्तस्य मुक्तः कुशल इत्येव भवति गुणातीतत्वादिति । सिध्दा भवति विवेकख्यातिर्हानोपाय इति । न च सिध्दिरन्तरेण साधनमित्येतदारभ्यते –

Добавить комментарий

Ваш e-mail не будет опубликован. Обязательные поля помечены *