Моя рефлексия по поводу возмутительного поведения в одном из магазинов спортивной одежды. Без ключа, настроения нет.
सदाचारः
Автор: RN
Зн.: 573

ह्यः एव एषा घटना घटिता।
अहं आरक्षितं वस्त्रं स्वीकर्तुम् एकं वस्त्रापणं आगतः। तत्र केचित् क्रयिकाः अवर्तन्त, रोकपाला तु न अविद्यत। अहं क्रमान्ते स्थितवान्।
एतस्मिन् समये काचित् अन्या क्रयिका, विचित्राणि वस्त्राणि पाणौ धृत्वा, मम समीपे आगतवती।
– रोकपालः तु कुत्र?
– नैव जाने।
तदा सा आपणस्य दूर–कोनं प्रति अक्रोशत्–
– हरे कृष्ण! याकापि देवी समायातु!
तस्याः क्रोशन–अनन्तरम् एका रोकपाला आविर्भूता जाता। ये तु मम अग्रे जनाः अभवत्, ते सर्वेपि अकस्मात् धनयन्त्रात् दूरं निःसृताः।
यावत् तु अहम् तान् प्रष्टुम् उद्युक्तः, तावत् रोकपाला वदति–
– अत्र आगच्छतु।
परं तत्क्षणम् एव मम पश्चात् स्थिता बृहत्काया, उच्चस्वरा महिला, दीर्घं कूर्दनं कृत्वा, धनयन्त्रस्य समीपे अधावत्, स्वीयानि च वस्त्राणि गणित्रस्य उपरि स्थापितवती।
एतस्मात् दुराचारात् मम हृदि क्रोधः संजातः। मया च सा उक्ता–
– रे! अतीसारवत् तीक्ष्णतरा तु त्वम् खलु!
– एतस्मिन् जीवने तीक्ष्णतरत्वेन भवितव्यम्, – इति तया सकृत्रिमहासं प्रत्युक्तम्।
– तत्र क्रमः अपि अस्ति, इति त्वया न दृश्यते वा?
– कालातीतः एव तव क्रमः। तिष्ठ तावत्!
न मे विरोध–वर्धने शिला अस्ति, इति अतः अहं तूष्णीं भूत्वा, मदीयं क्रमं प्रतीक्षितवान्। परं हृत्पद्म कर्दमेन मलिनम् इव संजातम्।
एतेन सदृशः प्रसंगः यदा मया सह पूर्वम् आपन्नः, इति अहं स्मरणं कर्तुम् अपि न अशक्नोत्। कुत्र निर्गतः पुरुषाणां सदाचारः? न कोपि संग्रामः अस्मद्–देशे विद्ये तावत्। अपितु जनाः पशवः इव चरन्ति। निरर्थकाः सांसारिकाः विषयाः तेषां प्रियतमाः, न तु अन्याः जनाः। एतादृशेन एव रूपेण समाजस्य संस्कृति–हानिः प्रकटयति।