A fragment of my language memoirs…
विदेशभाषायाः प्रथमः परिचयः
Characters: 638
मम विदेशभाषायाः (foreign language) परिचयः (acquaintance) ऐदंप्राथम्येन (for the first time) शिशुविहारे (kindergarten) एव आपन्नः।
मम एकं मित्रम् आसीत्। तस्य नाम स्तासः (Stas). तस्य तु मित्रस्य अग्रजः आसीत्। तस्य नाम अन्द्रेयः (Andrew). यदा वयं शिशुविहारस्य उत्तमे वर्गे आसन्, तदा अन्द्रेयः विद्यालयस्य पञ्चमे वर्गे एव पठनं कुर्वन् आसीत्।
एवं स्थिते, एकदा स्तासः बहिः भ्रमणस्य मध्ये मन्दस्वरेण वदति– «मम समीपे तु किमपि अस्ति!» इति। कुतूहलेन अहं «किं तत्? दर्शय!» इति अवदम्।
«न केनऽपि अन्येन एतत् द्रष्टव्यम्। रहसि गच्छामः» इति स्तासः मांम् उक्तवान्।
तद्–अनन्तरं स्तासः, अहम्, एकः अन्यः बालकः च सेर्गेयः (Sergey) नाम – सर्वे अपि वयं अन्यान् शिशून् त्यक्त्वा, निर्जनं देशं प्राप्ताः। तत्र स्तासः स्वस्य पादांशुकस्य कोशात् एकं पुटीकृतं कादगस्य पत्रम् उद्धृतवान्। तत् प्रसार्य, सः तत्र लिखितान् केचित् शब्दान् दर्शयाम् आस।
«किं तत्, मित्र?» इति सेर्गेयः अपृच्छत्।
«एतत् तु आङ्ग्लभाषायां केचित् शब्दाः। अहं तेषाम् अध्यायनं करोमि» इति सगर्वं स्तासः उक्तवान्।
«कुतः लब्धवान्?» – इति अहम् अपृच्छम्।
«अन्द्रेयः (तस्य अग्रजः) विद्यालये आङ्ग्लभाषायाः अध्ययनम् आरब्धवान्। सः एव मदर्थम् एतत् लेखं कृतवान्» इति सः अवदत्।
«त्वया सह अस्माभिः एतेषां शब्दानाम् अध्ययनं संभाव्यं वा?» इति अहम् आशापूर्णः पृष्टवान्।
«अस्तु» इति अङ्गीकृतवान् मम मित्रम्।
तद्–अनन्तरं स्तासः पठने अयतत।
«a boy – इति बालकः।
a girl – इति बालिका।
a pen – इति लेखनी।
a pencil – इति अङ्कनी।
a table – इति उत्पीठिका।
a tree – इति वृक्षः।
a stone – इति पाषाणः»
इति एवमादि।
आवां तु द्वौ तस्य अनुसारेण अनुवादं कृतवन्तौ। न कोऽपि तु ज्ञातवान्, एतैः शब्दैः किं पुनः कर्तव्यम्। वयं तु एतद्–विषये चिन्ताम् एव न अकुर्म।
अहं तेषु दिनेषु षड्वर्षीयः एव बालकः आसम्…
मम समीपे तत् एव आङ्ग्लभाषायाः अभ्यासपुस्तकम् अस्ति। मम मित्रं साशः (Sasha) नाम गते वर्षे तत् मे अर्पितवान्।

